|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.47. अध्यायः 047
Mahabharata - Vana Parva - Chapter Topics
वैशम्पायनेन जनमेजयंप्रति पाण्डवानां वने भोज्यवस्तुकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
3-47-0(17677)
जनमेजय उवाच। 3-47-0x(1903)
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने।
प्रव्राज्यपाण्डवान्वीरान्सर्वमेतन्निर्रथकम् ॥ 3-47-1(17678)
कथं च राजपुत्रं तमुपेक्षेताल्पचेतसम्।
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् ॥ 3-47-2(17679)
किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम्।
वन्यं वाऽप्यवा कृष्टमेतदाख्यातु नो भवान् ॥ 3-47-3(17680)
वैंशंपायन उवाच। 3-47-4x(1904)
वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान्।
ब्राह्मणानां निवेद्याग्रमभुञ्जता महारथाः ॥ 3-47-4(17681)
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने।
अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा ॥ 3-47-5(17682)
ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम्।
दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः ॥ 3-47-6(17683)
रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्मनोरमान्।
बाणैरुन्मथ्य विविधैर्ब्राह्मणेभ्यो न्यवेदयत् ॥ 3-47-7(17684)
न तत्र कश्चिद्दुर्वर्णो व्याधितो वाऽपि दृश्यते।
कृशो वा दुर्बलो वाऽपि दीनो भीतोपि वा पुनाः ॥ 3-47-8(17685)
पुत्रानिव प्रियान्भ्रातॄन्ज्ञातीनिव सहोदरान्।
पुरोष कौरवश्रेष्ठो धर्मेराजो युधिष्ठिरः। 3-47-9(17686)
पतीश्च द्रौपदी सर्वाञ्द्विजातीश्च यशस्विनी।
मातेव भोजयित्वाऽग्रे शिष्टमाहारयत्तदा ॥ 3-47-10(17687)
प्राचीं राजा दक्षिणां भीमसेनो
यमौ प्रतीचीमथवाऽप्युदीचीम्।
धनुर्धरा मांसहेतोर्मृगाणां
क्षयं चक्रुर्नित्यमेवोपगम्य ॥ 3-47-11(17688)
तथा तेषां कवसतां काम्यके वै
विहीनानामर्जुनेनोत्सुकानाम्।
पञ्चैव वर्षाणि तथा व्यतीयु-
रथीयतां जपतां जुह्वतां च ॥ 3-47-12(17689)
इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-47-3 कृष्टं कर्षणजं ग्राम्यधान्यम् ॥ 3-47-4 शुद्धैर्विषालिप्तैः। आनेयं वनभवम् ॥ 3-47-5 अनग्नयः परिव्राजकाः ॥ 3-47-10 आहारयत् आहारं कृतवती ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|